वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣢म꣣न्या꣡ यन्त्युप꣢꣯यन्त्य꣣न्याः꣡ स꣢मा꣣न꣢मू꣣र्वं꣢ न꣣꣬द्य꣢꣯स्पृणन्ति । त꣢मू꣣ शु꣢चि꣣ꣳ शु꣡च꣢यो दीदि꣣वा꣡ꣳस꣢म꣣पा꣡न्नपा꣢꣯त꣣मु꣡प꣢ य꣣न्त्या꣡पः꣢ ॥६०७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति । तमू शुचिꣳ शुचयो दीदिवाꣳसमपान्नपातमुप यन्त्यापः ॥६०७॥

मन्त्र उच्चारण
पद पाठ

स꣢म् । अ꣣न्याः꣢ । अ꣣न् । याः꣢ । य꣡न्ति꣢꣯ । उ꣡प꣢꣯ । य꣣न्ति । अन्याः꣢ । अ꣣न् । याः꣢ । स꣣मान꣢म् । स꣣म् । आन꣢म् । ऊ꣣र्व꣢म् । न꣣द्यः꣢꣯ । पृ꣣णन्ति । त꣢म् । उ꣣ । शु꣡चि꣢꣯म् । शु꣡चयः꣢꣯ । दी꣣दिवाँ꣡स꣢म् । अ꣣पा꣢म् । न꣡पा꣢꣯तम् । उ꣡प꣢꣯ । य꣣न्ति । आ꣡पः꣢꣯ ॥६०७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 607 | (कौथोम) 6 » 3 » 3 » 6 | (रानायाणीय) 6 » 3 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में नदियों के दृष्टान्त से परमात्मा की महिमा वर्णित है।

पदार्थान्वयभाषाः -

(अन्याः) कुछ नदियाँ (सं यन्ति) एक-दूसरी से मिलकर समुद्र को प्राप्त होती हैं, (अन्याः) और दूसरी कुछ नदियाँ (उपयन्ति) स्वतन्त्र रूप से पृथक्-पृथक् समुद्र में पहुँचती हैं। (नद्यः) वे सभी नदियाँ (समानम्) एक ही (ऊर्वम्) समुद्र की अग्नि को (पृणन्ति) तृप्त करती हैं। इसी प्रकार (तम् उ) उसी (शुचिम्) पवित्र (दीदिवांसम्) देदीप्यमान, (अपाम्) आप्त प्रजाओं को (नपातम्) पतित न करनेवाले, प्रत्युत उन्नत करनेवाले परमात्मारूप अग्नि को (आपः) आप्त प्रजाएँ (उपयन्ति) प्राप्त होती हैं ॥६॥ इस मन्त्र में व्यङ्ग्य-साम्यवाले दो वाक्यों में एक ही सामान्य धर्म ‘पृणन्ति’ और ‘उपयन्ति’ इन पृथक्-पृथक् शब्दों से वर्णित होने के कारण प्रतिवस्तूपमा अलङ्कार है। ‘सम, समा,’ ‘न्या, न्या,’ ‘यन्त्यु, यन्त्य,’ ‘पयन्त्य, पयन्त्या’ में छेकानुप्रास है ॥६॥

भावार्थभाषाः -

जैसे व्याप्त नदियाँ एक ही समुद्र को भरती हैं, वैसे ही आप्त प्रजाएँ एक ही परमात्मा को प्राप्त होती हैं ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ नदीदृष्टान्तेन परमात्मनो महिमानमाह।

पदार्थान्वयभाषाः -

(अन्याः) काश्चन नद्यः (सं यन्ति) परस्परं संसृज्य समुद्रं गच्छन्ति, (अन्याः) इतराश्च (उप यन्ति) स्वतन्त्रतया पृथक् पृथक् समुद्रम् उपगच्छन्ति, (नद्यः) ताः सर्वा अपि सरितः (समानम्) एकमेव (ऊर्वम्) समुद्राग्निम् (पृणन्ति) प्रीणयन्ति। पृण प्रीणने, तुदादिः। तथैव (तम्) उ तमेव (शुचिम्) पवित्रम्, (दीदिवांसम्) देदीप्यमानम्। दिवुः दीप्यर्थः, लिटः क्वसुः। (अपाम्) आप्तानां प्रजानाम्२ (नपातम्) न पातयितारम् अग्निं परमात्मानम् (आपः) आप्ताः प्रजाः (उप यन्ति) उपगच्छन्ति ॥६॥ अत्र व्यङ्ग्यसाम्ययोर्द्वयोर्वाक्ययोरेकोऽपि सामान्यो धर्मः ‘पृणन्ति, उपयन्ति’ इति पृथक्शब्दाभ्यां निर्दिष्ट इति प्रतिवस्तूपमालङ्कारः३। ‘सम, समा’, ‘न्या, न्या’, ‘यन्त्यु, यन्त्य’, ‘शुचि, शुच’, ‘पयन्त्य, पयन्त्या’ इति च सर्वत्र छेकानुप्रासः ॥६॥

भावार्थभाषाः -

यथा व्याप्ता नद्य एकमेव समुद्राग्निं प्रीणयन्ति तथैवाप्ताः प्रजा एकमेव परमात्माग्निं प्राप्नुवन्ति ॥६॥४

टिप्पणी: १. ऋ० २।३५।३, ‘नद्यः पृणन्ति’, ‘परितस्थुरापः’ इति पाठः। २. ‘(आपः) आप्ताः प्रजाः’ इति य–० ६।२७ भाष्ये द०। ३. प्रतिवस्तूपमा सा स्याद् वाक्ययोर्गम्यसाम्ययोः। एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ सा० द० १०।४९-५० इति तल्लक्षणात्। ४. ऋग्भाष्ये दयानन्दर्षिरस्य मन्त्रस्य भावार्थमेवमाह—‘यथा नद्यः स्वयं समुद्रं प्राप्य स्थिरोदका जायन्ते, यथा आपो मेघमण्डलं प्राप्य दिव्या भवन्ति, तथा स्त्री अभीष्टं पतिं पतिरभीष्टां स्त्रियं च प्राप्य स्थिरमनस्कौ शुद्धभावौ भवतः’ इति।